📚 श्रीमद्भागवतम् (बहुटीकासहितम्) - स्कन्धः ३
Page 1
Download 📥
________________ श्रीमद्भागवतम् अनेकव्याख्यासमलङ्कृतम् तृतीयः स्कन्धः अथ प्रथमोऽध्यायः श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ श्रीधरस्वामिविरचिता भावार्थदीपिका । श्रीगणेशाय नमः || नमो भगवते वासुदेवाय || तृतीये तु त्रयस्त्रिंशदध्यायैः सर्गवर्णनम् । ईशेक्षया गुणक्षोभात्सर्गे ब्रह्मांडसंभवः ।। १ ।। तत्र तु प्रथमेऽध्याये बंधून्हित्वा गतायुषः । निर्गतस्योद्धवेनादौ संवादः क्षत्तुरुच्यते ॥ २ ॥ भगवद्ब्रह्मसंप्रोक्तं संक्षिप्तं वर्णितं पुरा || प्राह भागवतं शेषप्रोक्तं विस्तरतः पुनः ॥ ३ ॥ द्वेधा हि श्रीमद्भागवत संप्रदायप्रवृत्तिः एकतः संक्षेपतः श्रीनारायणब्रह्मनारदादिद्वारेण अन्यतस्तु विस्तरतः शेषसनत्कुमार- सांख्यायनादिद्वारेण तत्र द्वितीये) श्रीनारायण ब्रह्मसंवादेन संक्षेपतोऽहमेवा समित्यादिचतुः श्लोक्या श्रीभागवतं निरूपितम् । तदेव ब्रह्मनारदसंवादेन दशलक्ष गतया किंचिद्विस्तरेणोक्तम् । तदेव शेषोक्तम तेविस्तरतो वक्तुं तृतीयाद्यारंभः तत्र तृतीये प्रथमं क्षत्तुमैत्रेय- संगमचतुर्भिरध्यायैः ततोऽष्टभिः सविसर्गः सर्गप्रपंचः ततो विसर्गप्रस्तावेन सप्तभिर्वराहावतारः तत एकेन विसर्गसमाहारः तत्प्रसंगेन चतुर्भिः कपिलावतारः ततो नवभिः कपिलाख्यानमिति त्रयस्त्रिंशद्भिरध्यायैस्तृतीयस्कंधप्रवृत्तिः । तत्र । द्वितीयांते " परिमाणं च कालस्य कल्पलक्षणविग्रहम् ॥ यथा पुरस्ताद्वयाख्यास्ये पाद्मं कल्पमथो शृणु ।” इति प्रतिज्ञातमर्थं विस्तरेण निरूप- यितुमितिहासं प्रस्तौति भगवान् शुकः । एवमिति द्वाभ्याम् । ऋद्धिमत्सर्वसंपद्भिः परिपूर्णम् ॥ १ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । ॐ स्वस्तिश्रीगणेशाय नमः । श्रीकृष्णं सच्चिदानन्दं वल्लबीजनवल्लभम् । वंदे स्वाज्ञानहतये ज्ञानावाप्त्यै सदोद्यतः ॥ १ ॥ । इह प्रतिस्कंधकर्त्तव्यं श्रीरामचंद्रनतिरूपं मंगलमवश्य कर्त्तव्यताकत्वेन शास्त्रवर्णनीय सर्गादिदशलक्षणाद्य सर्गलक्षणस्यारब्ध- त्वात्प्राप्तं लेखक प्रमादादत्र नास्तीति । यद्वा । दुर्ज्ञेयसर्गविचाराकुलत्वात्तद्विस्मृतमिति ज्ञेयम् । सर्गलक्षणमाह - ईशेच्छयेति ॥ (१) ॥ तत्र त्रयस्त्रिंशत्स्वाध्यायेषु गतायुषः नष्टायुर्दायान् (|| २ || ३ ||) एकतः एका प्रथमार्थे तसिः । अन्यतोऽन्या द्वितीयेति तत्र द्वयोर्मध्ये द्वितीये स्कंधे तदेव संक्षेपनिरूपितमेव तृतीयादीनां स्कंधानामारंभस्तृतीयाद्यारंभः । यत्र तृतीयादिषु स्कंधेषु ततश्चतुरध्यायोत्तरं